|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.195. अध्यायः 195
Mahabharata - Adi Parva - Chapter Topics
ब्राह्मणीवाक्येन और्वंप्रति शरणागतानां क्षत्रियाणां चक्षुःप्राप्तिः॥ 1 ॥ लोकविनाशार्थं तपस्यत और्वस्य तत्पितृकृततपोनिवारणम्॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text
ब्राह्मण्युवाच। 1-195-0x(1116)(8730)
नाहं गृह्णामि वस्ताता दृष्टीर्नास्मि रुषान्विता।
अयं तु भार्गवो नूनमूरुजः कुपितोऽद्य वः॥ 1-195-1(8731)
तेन चक्षूंषि वस्ताता व्यक्तं कोपान्महात्मना।
स्मरता निहतान्बन्धूनादत्तानि न संशयः॥ 1-195-2(8732)
गर्भानपि यदा यूयं भृगूणां घ्नत पुत्रकाः।
तदायमूरुणा गर्भो मया वर्षशतं धृतः॥ 1-195-3(8733)
षडङ्गश्चाखिलो वेद इमं गर्भस्थमेव ह।
विवेश भृगुवंशस्य भूयः प्रियचिकीर्षया॥ 1-195-4(8734)
सोऽयं पितृवधाद्व्यक्तं क्रोधाद्वो हन्तुमिच्छति।
तेजसा तस्य दिव्येन चक्षूंषि मुषितानि वः॥ 1-195-5(8735)
तमेव यूयं याचध्वमौर्वं मम सुतोत्तमम्।
अयं वः प्रणिपातेन तुष्टो दृष्टीः प्रदास्यति॥ 1-195-6(8736)
वसिष्ठ उवाच। 1-195-7x(1117)
एवमुक्तास्ततः सर्वे राजानस्ते तमूरुजम्।
ऊचुः प्रसीदेति तदा प्रसादं च चकार सः॥ 1-195-7(8737)
अनेनैव च विख्यातो नाम्ना लोकेषु सत्तमः।
स और्व इति विप्रर्षिरूरुं भित्त्वा व्यजायत॥ 1-195-8(8738)
चक्षूंषि प्रतिलभ्याथ प्रतिजग्मुस्ततो नृपाः।
भार्गवस्तु मुनिर्मेने सर्वलोकपराभवम्॥ 1-195-9(8739)
स चक्रे तात लोकानां विनाशाय मतिं तदा।
सर्वेषामेव कार्त्स्न्येन मनः प्रवणमात्मनः॥ 1-195-10(8740)
इच्छन्नपचितिं कर्तुं भृगूणां भृगुनन्दनः।
सर्वलोकविनाशाय तपसा सहतैधितः॥ 1-195-11(8741)
तापयामास ताँल्लोकान्सदेवासुरमानुषान्।
तपसोग्रेण महता नन्दयिष्यन्पितामहान्॥ 1-195-12(8742)
ततस्तं पितरस्तात विज्ञाय कुलनन्दनम्।
पितृलोकादुपागम्य सर्व ऊचुरिदं वचः॥ 1-195-13(8743)
और्व दृष्टः प्रभावस्ते तपसोग्रस्य पुत्रक।
प्रसादं कुरु लोकानां नियच्छ क्रोधमात्मनः॥ 1-195-14(8744)
नानीशैर्हि तदा तात भृगुभिर्भावितात्मभिः।
वधो ह्युपेक्षितः सर्वैः क्षत्रियाणां विहिंसताम्॥ 1-195-15(8745)
आयुषा विप्रकृष्टेन यदा नः खेद आविशत्।
तदाऽस्माभिर्वधस्तात क्षत्रियैरीप्सितः स्वयम्॥ 1-195-16(8746)
निखातं यच्च वै वित्तं केनचिद्गृगुवेश्मनि।
वैरायैव तदा न्यस्तं क्षत्रियान्कोपयिष्णुभिः॥ 1-195-17(8747)
किं हि वित्तेन नः कार्यं स्वर्गेप्सूनां द्विजोत्तम।
यदस्माकं धनाध्यक्षः प्रभूतं धनमाहरत्॥ 1-195-18(8748)
यदा तु मृत्युरादातुं न नः शक्नोति सर्वशः।
तदाऽस्माभिरयं दृष्ट उपायस्तात संमतः॥ 1-195-19(8749)
आत्महा च पुमांस्तात न लोकाँल्लभते शुभान्।
ततोऽस्माभिः समीक्ष्यैवं नात्मनात्मा निपातितः॥ 1-195-20(8750)
न चैतन्नः प्रियं तात यदिदं कर्तुमिच्छसि।
नियच्छेदं मनः पापात्सर्वलोकपराभवात्॥ 1-195-21(8751)
मा वधीः क्षत्रियांस्तात न लोकान्सप्त पुत्रक।
दूषयन्तं तपस्तेजः क्रोधमुत्पतितं जहि॥ ॥ 1-195-22(8752)
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि पञ्चनवत्यधिकशततमोऽध्यायः॥ 195 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-195-20 आत्महेति एतेन भृगुपतनादिना मरणं ब्राह्मणेतरविषयं दर्शितम्॥ 1-195-22 मावधीरिति क्षत्रियान् तदनियन्तृत्वेनानपराधिनः। सप्तलोकान् भूरादींश्च मावधीः किंतु तपःसंभृतं तेजो दूषयन्तं क्रोधं जहि॥ पञ्चनवत्यधिकशततमोऽध्यायः॥ 195 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|